<?xml version="1.0" encoding="utf-8"?> <document> <s id="1">67 प्रत्येकः अपि विशिष्टाय कार्याय प्राप्तजन्मा अस्ति । तद्कार्यस्य सम्पादनेच्छा सर्वस्मिन् हृदये निहिता अस्ति । उद्धृतम् - Marry Your Muse : Making a Lasting Commitment to Your Creativity (1997) by Jan Phillips, p.</s> <s id="2">XI॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥ अनु. ९२ दा. पा.</s> <s id="3">I॥ व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोऽपि वा। प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात्॥ अनु. १४५ दा. पा.</s> <s id="4">IX॥ तेषामुद्भिजा वृक्षा लतावल्लयश्च वीरुधः। दशंयूकादयश्चान्ये स्वेदजाः कृमिजातयः॥ अनु. १४५ दा. पा. अ.</s> <s id="5">IX॥ कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति। यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्॥ पशुभिर्निविशेषं तु चेष्टन्ते मानुषा अपि॥ अनु. १४५ दा. पा. अ.</s> <s id="6">IV॥ धर्मं विज्ञासमानानां प्रमाणं परमं श्रुतिः। द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः॥ आश्व. ९२ दा. पा. अ.</s> <s id="7">XX॥ पञ्चस्वेतेषु हृदि शौचं विशिष्यते॥ अनु. ९२ दा. पा. अ.</s> <s id="8">I॥ विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते। कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा॥ अनु. १४५ दा. पा.</s> <s id="9">XI॥ ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम्। मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्॥ अनु. ९२ दा. पा. अ.</s> <s id="10">III॥ प्रमादाद्धन्यते राजा लोभेन च वशीकृतः। तस्मात् प्रमादं लोभं च न कुर्यान्न विश्वसेत्॥ अनु. १४५ दा. पा.</s> <s id="11">III॥ अशिष्टशासनं धर्मः शिष्टानां परिपालनम्॥ अनु. १४५ दा. पा.</s> <s id="12">I॥ क्षुद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः। तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः॥ अनु. १४५ दा. पा.</s> <s id="13">XIV॥ ऎश्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा। रसायनप्रयोगो वा न तरन्ति जरान्तकौ॥ अनु. १४५ दा. पा. अ.</s> <s id="14">IX॥ कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्। तच्छुतं नुदति क्षिप्रं यथा बायुर्बलाहकान्॥ अनु. १४५ दा. पा. अ.</s> <s id="15">XII॥ चक्षुषा वापि हीनस्य पङ्गोर्वापि जडस्य वा। हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="16">III॥ अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा। विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः स्त्रियश्चैव न हन्तव्या यश्च सर्वातिथिनरः॥ अनु. १४५ दा. पा.</s> <s id="17">II॥ सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः। लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवार्यते॥ अनु. १४५ दा. पा.</s> <s id="18">I॥ आत्मानमेव प्रथमं विनयैरुपपादयेत्। अनुभृत्यान् प्रजाः पश्चादित्येष विनयक्रमः॥ अनु. १४५ दा. पा.</s> <s id="19">XI॥ दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः। स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने॥ अनु. १४५ दा. पा.</s> <s id="20">IX॥ लोकसंधारणं तस्माच्छ्रतमित्यवधारय। ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि॥ अनु. १४५ दा. पा. अ.</s> <s id="21">III॥ क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्। तमग्य्रं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः॥ आश्व. ९२ दा. पा. अ.</s> <s id="22">XIV॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्वे चापराह्विकम्। कोऽपि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः॥ अनु. १४५ दा. पा.</s> <s id="23">XVI॥ वर्णाक्षरपदार्थानां संधिलिङ्गं प्रकीर्तितम्। नामधातु विवेककार्यं पुरा व्याकरणं स्मृतम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="24">XI॥ सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं तु यत्। बाह्यशौचं भवेदेतत् तथैवाचमनादिना॥ अनु. १४५ दा. पा. अ.</s> <s id="25">X॥ अहिंसा शैचमक्रोधमानृशंस्यं दमः शमः। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ आश्व.९२ दा.पा.अ.</s> <s id="26">III॥ एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="27">IX॥ तथा भूम्यम्बु संयोगाद् भवन्त्युद्भिजाः प्रिये। शीतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये॥ अनु. १४५ दा. पा. अ.</s> <s id="28">XII॥ आश्रमे वाऽऽलये वापि ग्रामे वा नगरेऽपि वा। अग्निं यः प्रक्षिपेत् क्रुद्धस्तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="29">XIII॥ मनश्शौचं कर्मशौचं कुलशौचं च भारत। शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्॥ अनु. ९२ दा. पा. अ.</s> <s id="30">XIV॥ न धनेन न राज्येन नाग्य्रेण तपसापि वा। मरणं नातितरते विना मुक्त्या शरीरिणः॥ अनु. १४५ दा. पा. अ.</s> <s id="31">XVI॥ नामधातुविकल्पानां तत्त्वार्थनियमाय च। सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="32">IX॥ पक्षिणश्छिद्रकर्णाश्च प्राणिनस्त्वण्डजा मताः। मृगव्याल मनुष्यांश्च विद्धि तेषां जरायुजान्॥ अनु. १४५ दा. पा. अ.</s> <s id="33">IV॥ सहस्रपरमां देवीं शतमध्यां शतावराम्। सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम्॥ आश्व. ७२ दा. पा. अ.</s> <s id="34">I॥ प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्। प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजा हितम्। प्रजार्थं तस्य सर्वस्वमात्मार्थं न विधीयते॥ अनु. १४५ दा. पा.</s> <s id="35">158. परोपकाराय जीवनमात्रं भवेत् सार्थकं जीवनम् । प्रश्नोत्तरम् - Youth, a journal of Young Israel of Williamsburg, NY.</s> <s id="36">XVI॥ यज्ञपात्रपवित्रार्थं द्रव्यसम्भरणाय च। सर्वयज्ञविकल्पाय पुरा कल्पं प्रकीर्तितम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="37">XI॥ शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम्। तक्षणं घर्षणं चैव दारवाणां विशोधनम्॥ अनु. १४५ दा. पा. अ.</s> <s id="38">IX॥ यज्ञादीनां समारम्भः श्रुतेनैव विधीयते। यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते॥ अनु. १४५ दा. पा. अ.</s> <s id="39">XI॥ दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम्। शेषाणां देवि सर्वेषामातपेन जलेन च॥ अनु. १४५ दा. पा. अ.</s> <s id="40">XVI॥ ॠग्यजुः साम मन्त्राणां श्लोकतत्वार्थ चिन्तनात्। प्रत्यापत्ति विकल्पानां छन्दोज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="41">XIII॥ ब्राह्मणान् नावमन्येत गुरून् परिवदेन्न च। यतीनामनुकूलः स्यादेष धर्मः सनातनः॥ आश्व.९२ दा.पा.अ.</s> <s id="42">IX॥ अण्डजाश्चापि जायन्ते संयोगात् क्लेदबीजयोः। शुक्रशोणितसंयोगात् सम्भवन्ति जरायुजाः जरायुजानां सर्वेषां मानुषं पदमुत्तमम्॥ अनु. १४५ दा. पा. अ.</s> <s id="43">17. मानवप्रकृत्तेः उपरि सस्याहारजीवनशैल्याः भौतिकपरिणामस्य अवलोकनात् मम भासते यत् ततः मानवतायाः उपरि महान् सत्परिणामः भवेदिति । पत्रम् - to Harmann Huth, 27 December 1930.</s> <s id="44">I॥ पञ्चैव स्ववशे कृत्वा तदर्थान् पञ्च शोषयेत्। षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च। शास्त्रचक्षुर्नयपरो भूत्वा भृत्यान् समाहरेत्॥ अनु. १४५ दा. पा.</s> <s id="45">V॥ विद्यादानं तथा देवि पात्रभूताय वै ददत्। प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्॥ अनु. १४५ दा. पा.</s> <s id="46">299 कश्चन जनः 'अ' जीवने यशस्वी इति चेत्, अ=का + खे + मौ । का - कार्यम्, खे - खेला, मौ - मौनम् । उक्तम् - Samuel J Woolf, Berlin, Summer 1929.</s> <s id="47">This may be an edited version of some nearly identical quotes from the 1929 Viereck interview below. विज्ञानम् इत्येतत् प्रतिदिनस्य चिन्तनस्य संस्कारं विना नान्यत् किञ्चित् । "Physics and Reality" in the Journal of the Franklin Institute Vol.</s> <s id="48">22 शरीरस्य घनराशिः तस्मिन् विद्यमानायाः शक्तेः मानं वर्तते । उद्धृतम् - Concepts of Mass in Classical and Modern Physics by Max Jammer (1961), p.</s> <s id="49">X॥ अनागतानि कार्याणि कर्तुं गणयते मनः। शारीरकं समुद्दिश्य स्मयते नूनमन्तकः॥ तस्माद् धर्मसहायस्तु धर्मं संचिनुयात् सदा। धर्मेण हि सहायेन तमस्तरति दुस्तरम्॥ आश्व.९२ दा.पा.अ.</s> <s id="50">XIII॥ बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्। वार्धके मौनमातिष्ठेत् सर्वदा धर्ममाचरेत्॥ आश्व.९२ दा.पा.अ.</s> <s id="51">IX॥ प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत। एवं नित्यं प्रवर्धेते रोदसी च परस्परम्॥ अनु. १४५ दा. पा. अ.</s> <s id="52">I॥ अभियुक्तो बलवता कुर्यादापद्विधिं नृपः। अनुनीय तथा सर्वान् प्रजानां हितकारणात्॥ अनु. १४५ दा. पा.</s> <s id="53">IX॥ भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ आश्व. ९२ दा. पा. अ.</s> <s id="54">XIV॥ मरणं हि शरीरस्य नियतं ध्रुवमेव च। तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः॥ अनु. १४५ दा. पा. अ.</s> <s id="55">XIII॥ धर्मो धर्मेण वर्धते॥ आश्व.९२ दा.पा.अ.</s> <s id="56">XVI॥ यूपवेद्यध्वरार्थं तु प्रोक्षण श्रपणाय तु। यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ.</s> <s id="57">VII॥ त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम्। प्रत्यक् प्रागपि राजेन्द्र तत् तथा दक्षिणोत्तरम्। गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप॥ आश्व. ९२ दा.पा.अ.</s> <s id="58">I॥ विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम्। दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम्॥ अनु. १४५ दा. पा.</s> <s id="59">IX॥ सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत। उपर्युपरि मर्त्यानां देववत् सम्प्रकाशते॥ अनु. १४५ दा. पा. अ.</s> <s id="60">126. जन्मना अहमस्मि ज्यू, स्वीस्देशस्य नागरिकः अस्मि । निर्माणेन मानवमात्रः अस्मि । केनापि स्थलेन सह मम नास्ति कोऽपि विशेषानुबन्धः । Letter to Alfred Kneser (7 June 1918); Doc.</s> <s id="60">___LASTID___</s> </document>